वांछित मन्त्र चुनें

पुन॒र्वै दे॒वा अ॑ददु॒: पुन॑र्मनु॒ष्या॑ उ॒त । राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥

अंग्रेज़ी लिप्यंतरण

punar vai devā adaduḥ punar manuṣyā uta | rājānaḥ satyaṁ kṛṇvānā brahmajāyām punar daduḥ ||

पद पाठ

पुनः॑ । वै । दे॒वाः । अ॒द॒दुः॒ । पुनः॑ । म॒नु॒ष्याः॑ । उ॒त । राजा॑नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒ऽजा॒याम् । पुनः॑ । द॒दुः॒ ॥ १०.१०९.६

ऋग्वेद » मण्डल:10» सूक्त:109» मन्त्र:6 | अष्टक:8» अध्याय:6» वर्ग:7» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सत्यं कृण्वानाः) जीवन को सत्य सफल करते हुए (देवाः-वै) मुमुक्षु विद्वान् निश्चय से (ब्रह्मजायां पुनः-ददुः) वेदवाणी को स्वयं ग्रहण करके फिर अन्यों को देते हैं (उत) और (मनुष्याः) साधारण जन (पुनः-ददुः) वेदवाणी को स्वयं ग्रहण करके पुनः अन्यों को देते हैं (राजानः) राजा जन-शासक जन (पुनः-ददुः) वेदवाणी को स्वयं ग्रहण करके फिर अन्य को देते हैं ॥६॥
भावार्थभाषाः - मुमुक्षु विद्वज्जन दुसरे शासकजन तथा साधारण मनुष्यजन स्वयं वेदवाणी को ग्रहण करके अन्यों को देते हैं और देते रहना चाहिए, यह परम्परा जीवन को सफल बनाने के लिए आवश्यक है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सत्यं कृण्वानाः) जीवनं सत्यं सफलं कुर्वाणाः (देवाः-वै ब्रह्मजायां पुनः-ददुः) मुमुक्षवो विद्वांसो निश्चयेनेमां वेदवाचं स्वयं गृहीत्वा पुनरन्येभ्यः प्रयच्छन्ति (उत) अपि (मनुष्याः-पुनः-ददुः) मनुष्याः संसारे प्रवर्तमाना जना वेदवाचं स्वयं गृहीत्वा पुनरन्येभ्यः प्रयच्छन्ति (राजानः-पुनः-ददुः) राजानो वेदवाचं स्वयं गृहीत्वा पुनरन्येभ्यः प्रयच्छन्ति ॥६॥